|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.300. अध्यायः 300
Mahabharata - Vana Parva - Chapter Topics
साल्वदेशीयैर्द्युमत्सेनंप्रति न्मन्त्रिणा तच्छत्रुनिषर्हणनिवेदनपूर्वकं निजनगरंप्रत्यागमनप्रार्थना ॥ 1 ॥
सभार्येण द्युमत्सेनेन सावित्रीसत्यवद्भ्यां सह मुनिगणाभिवादनादिपूर्वकं स्वपुरप्रत्यागमनम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text
मार्कण्डेय उवाच। 3-300-0x(2817)(27535)
तस्यां रात्र्यां व्यतीतायामुदिते सूर्यमण्डले।
कृतपौर्वाह्णिकाः सर्वे समेयुस्ते तपोधनाः ॥ 3-300-1(27536)
तदेव सर्वं सावित्र्या महाभाग्यं महर्षयः।
द्युम्सेनाय नातृप्यन्कथयन्तः पुनः पुनः ॥ 3-300-2(27537)
ततः प्रकृतयः सर्वाः साल्वेभ्योऽभ्यागा नृपम्।
आचख्युर्निहतं चैव स्वेनामात्येन तं द्विषम् ॥ 3-300-3(27538)
तं मन्त्रिणा हतं प्रोच्य ससहायं सबान्धवम्।
न्यवेदयन्यथावृत्तं विद्रुतं च द्विषद्बलम् ॥ 3-300-4(27539)
ऐकमत्यं च सर्वस्य जनस्य स्वं नृपं प्रति।
सचक्षुर्वाऽप्यचक्षुर्वा स नो राजा भवत्विति ॥ 3-300-5(27540)
अनेन निश्चयेनेह वयं प्रस्थापिता नृप।
प्राप्तानीमानि यानानि चतुरङ्गं च ते बलम् ॥ 3-300-6(27541)
प्रयाहि राजन्भद्रं ते घुष्टस्ते नगरे जयः।
अध्यास्स्व चिररात्राय पितृपैतामहं पदम् ॥ 3-300-7(27542)
मार्कण्डेय उवाच। 3-300-8x(2818)
चक्षुष्मन्तं च तं दृष्ट्वा राजानं वपुषाऽन्वितम्।
मूर्ध्ना निपतिताः सर्वेविस्मयोत्फुल्ललोचनाः ॥ 3-300-8(27543)
तोऽभिवाद्य तान्वृद्धान्द्विजानाश्रमवासिनः।
तैश्चाभिपूजितः सर्वैः प्रययौ नगरं प्रति ॥ 3-300-9(27544)
शैव्या च सह सावित्र्या स्वास्तीर्णेन सुवर्चसा।
नरयुक्तेन यानेन प्रययौ सेनया वृता ॥ 3-300-10(27545)
ततोऽभिषिषिचुः प्रीत्या द्युमत्सेनं पुरोहिताः।
पुत्रं चास्य महात्मानं यौवराज्येऽभ्यषेचयन् ॥ 3-300-11(27546)
ततः कालेन महता सावित्र्याः कीर्तिवर्धनम्।
तद्वै पुत्रशतं जज्ञे शूराणामनिवर्तिनाम् ॥ 3-300-12(27547)
भ्रातृणां सोदराणां च तथैवास्याभवच्छतम्।
मद्राधिपस्याश्वपतेर्मालव्यां सुमहाबलम् ॥ 3-300-13(27548)
एवमात्मा पिता माता श्वश्रूः श्वशुर एव च।
भर्तुः कुलं च सावित्र्या सर्वं कृच्छ्रात्समुद्धृतं ॥ 3-300-14(27549)
तथैवैषा हि कल्याणी द्रौपदी शीलसंमता।
तारयिष्यति वः सर्वान्सावित्रीव कुलाङ्गना ॥ 3-300-15(27550)
वैशम्पायन उवाच। 3-300-16x(2819)
एवं स पाण्डवस्तेन अनुनीतो महात्मना।
विशोको विज्वरो राजन्काम्यके न्यवसत्तदा ॥ 3-300-16(27551)
यश्चेदं शृणुयाद्भक्त्या सावित्र्याख्यानमुत्तमम्।
स सुखी सर्वसिद्धार्थो न दुःखं प्राप्नुयान्नरः ॥ 3-300-17(27552)
इति श्रीमन्महाभारते अरण्यपर्वणि पतिव्रतामाहात्म्यपर्वणि त्रिशततमोऽध्यायः ॥ 300 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-300-7 चिररात्राय बहुकालम् ॥ 3-300-17 सर्पसिद्धार्थो रदीर्घमायुरवाप्नुयात् इति क. पाठः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|